अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
संस्कृतविकिपीडिया
स्वतन्त्रविश्वकोशः
तस्मिन् ह तस्थुर्भुवनानि विश्वा ॥
समग्रं ब्रह्माण्डं तस्मिन् विद्यते । -यजुर्वेदः ३१-१९
केनोपनिषत् (Kenopanishat) प्राचीनासु दशसु उपनिषत्सु अन्यतमा । अस्यां ३४ मन्त्राः विद्यन्ते । अस्याः उपनिषदः प्रमुखः विषयः भवति ब्रह्मविद्या । परब्रह्मस्वरूपः परमात्मा इन्द्रियातीतः, सः एव सर्वप्रेरकः इत्ययं विषयः समीचीनतया वर्णितः वर्तते । ब्रह्मज्ञानिनः लक्षणानि कानि इत्येतं विषयं मनोरञ्जकरीत्या विरोधाभासयुक्तैः वचनैः वर्णितवन्तः सन्ति । कापि देवता न स्वतन्त्रा, सर्वाः देवताः परब्रह्मणा प्रेरिताः इत्ययं सिद्धान्तः अत्र प्रदर्शितः अस्ति । 'एकं सद्विप्रा बहुधा वदन्ति' इत्यस्य वा 'एकमेवाद्वितीयम्' इत्यस्य श्रुतिवाक्यस्य मनोहरं व्याख्यानरूपं वर्तते केनोपनिषत् । परमसत्यम् एकमेव विद्यते, तच्च अतीन्द्रियं विद्यते इत्येतत् तत्त्वद्वयमेव अत्र कविभिः चर्चितः प्रमुखः विषयः ।
(अधिकवाचनाय » )
कवि-राजनेता अटलबिहारी वाजपेयी (२५ दिसम्बर,१९२४) शराश्विनग्रहभास्करमिते ग्वालियरनगरे श्रीमती कृष्णादेवी-कृष्णबिहारी वाजपेयी महाभागयोः पुत्रत्वेन जन्म अलभत । १९९६ तमे वर्षे १३ दिनानि, १९९८ तमे वर्षे १३ मासान् यावत्, पुनः १९९८ तः - २००४ तमवर्षपर्यन्तं पञ्च वर्षाणि यावच्च सः भरतवर्षस्य प्रधानमन्त्रिपदम् अलङ्कृतवान् ।
(अधिकवाचनाय » )
दूरीकरोति दुरितं विमलीकरोति
चेतश्चिरन्तनमघं चुलुकीकरोति
भूतेषु किञ्च करुणां बहुलीकरोति
सत्सङ्गति: कथय किं न करोति पुंसाम् ।
सु.भा. - सत्सङ्गतिप्रशंसा (९१/३०)
लोके सर्वेषां जनानां स्नेहिता: भवन्ति एव । तेषु स्नेहितेषु सज्जनानां संख्या तु न्यूना एव । यत: स्वार्थपरा: एव अधिका: सन्ति लोके । तथापि अस्माभि: सज्जनानां सहवास: एव करणीय: इति वदन् सुभाषितकार: तत्र कारणमपि वदति - सज्जनानां सहवासेन पुरुषाणां मनसि स्थिता: दुष्टा: विचारा: दूरं गच्छन्ति । मन: शुद्धं भवति । पुरा कृतं पापमपि भस्म भवति । अपि च प्राणिनां विषये दया अधिका भवति । अत: सज्जनानां स्नेह: मनुष्याणां किं वा न करोति ? अर्थात् सर्वविधानि मङ्गलानि अपि जनयति ।