अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
| संस्कृतविकिपीडिया
स्वतन्त्रविश्वकोशः
|
|
|
शिक्षा णो अस्मिन् पुरुहूत यामनि ॥
हे अत्यन्तस्तुत्य ! जीवनपथे अस्मभ्यं शिक्षणं देहि । -ऋग्वेदः ७-३२-२६
|
|
|
वैशेषिकदर्शनं(Vaiśeṣika) भारतीयदर्शनेषु अन्यतमम् । सकलदर्शनापेक्षया वैशेषिकदर्शनं प्राचीनम् । दर्शनम् एतत् सर्वशास्त्रोपकारकम् अस्ति। एतस्य दर्शनस्य प्रवर्तकः कणादः। कश्यपवंशोत्पन्नः एषः 'काश्यपः' इत्यपि ख्यातः । अयं तु स्वजीवननिर्वाहं कुर्वन् ज्ञानभण्डारात्मकमेतच्छास्त्रं रचितवान् । एतच्छास्त्रं न केवलं भारतदेशे, अपि तु सर्वत्र प्रपञ्चे विराजते । महात्मा कणादः प्रकृत्या स्वयं दरिद्रः सन् क्षेत्रे पतितान्नकणान् लक्षीकृत्य स्वजीवननिर्वाहं कृतवान् इत्यतः अस्य शास्त्रस्य ’कणादशास्त्रम्’ इति व्यवहारः । अन्यदपि नाम शास्त्रस्यास्य भवति वैशेषिकदर्श्नमिति । यतः अस्मिन् दर्शने विशेषः पदार्थत्वेन स्वीक्रियते ।
(अधिकवाचनाय »)
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
भारतीयराष्ट्रियकाङ्ग्रेस्
भारतीयराष्ट्रियकाङ्ग्रेस् इति कश्चन राजकीयपक्षः भारते अस्ति । एषः भारतस्य प्राचीनतमः राजतन्त्रपक्षः अस्ति । क्रि.श.१८८५तमे वर्षे प्रतिष्ठापितः अयं पक्षः ब्रिटिष्-प्रशासनं विरुध्य आन्दोलनकर्तृषु प्रथमः । स्वातन्त्र्योत्तरम् अधिककालं प्रशासनसूत्रम् अस्य पक्षस्य एव आसीत् । चतुर्दश्यां लोकसभायां (क्रि.श.२००४-२००९) १४५स्थानेषु अस्य पक्षस्य प्रतिनिधयः विजयं प्राप्नुवन् ।
(अधिकवाचनाय »)
|
|
|
|
|
|
|
|
गङ्गा पापं शशी तापं दैन्यं कल्पतरुस्तथा ।
पापं तापं च दैन्यं च घ्नन्ति सन्तो महाशया: ॥
-
-
-
-
-
- सु.भा. - सज्जनप्रशंसा (४७/६)
गङ्गानद्यां य: स्नानं करोति तस्य पापपरिहार: भवति । गङ्गा तस्य पापं नाशयति । तथैव चन्द्र: अस्माकं तापं परिहृत्य शैत्यम् उत्पादयति । एवमेव कल्पवृक्ष: अस्माभि: याचितान् सर्वान् अभिलाषान् पूरयति । एतत् जगति प्रसिद्धमेव । किन्तु गङ्गाया:, चन्द्रस्य, कल्पवृक्षस्य च एकस्मिन् एव विषये सामर्थ्यम् अस्ति । सज्जना: महापुरुषा: तु न तथा । तेषां सहवासेन अस्माकं पापं, ताप:, दैन्यं - सर्वमपि परिहृतं भवति । तादृशं सामर्थ्यं तेषु अस्ति ।
|
|
|
|
|
|