अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
|
संस्कृतविकिपीडिया
स्वतन्त्रविश्वकोशः
२००३ तमवर्षस्य डिसेम्बरमासे अस्याः आरम्भः जातः । सम्प्रति संस्कृतविकिपीडियायां १०,०५५ लेखाः सन्ति ।
मङ्गलवासरः, अगस्त ४, २०१५; समयः- ११:१५ UTC
विषयसर्वस्वम् * स्वशिक्षा * लेखनसाहाय्यम्
|
|
ज्योतिर्वृणीत तमसो विजानन् ॥
अन्धकारात् अपसार्य ज्ञानज्योतिः चीयताम् । -ऋग्वेदः ३-३९-७
|
|
|
जैनदर्शनम्
भारतीयदर्शनेषु अन्यतमं वर्तते । चार्वाकविचारधाराया अनन्तरं नास्तिकदर्शनेषु जैनदर्शनस्य महत्त्वपूर्णं स्थानमस्ति । चार्वाकमतस्य स्थूलतत्त्वानां चिन्तनस्य अपेक्षया सूक्ष्मचिन्तनं प्रति दृष्टिकोणस्य प्रावाहिकता जैनदर्शने दृश्यते । यत्र चार्वाकः शरीरमेवात्मानं स्वीकरोति तत्र जैनदर्शनेन आत्मा इति शरीरातिरिक्तम् अभौतिकं तत्त्वं स्वीकृतम् । तच्च शरीरपरिमाणं मध्यमपरिमाणं वाऽभिमतम् । वैदिकदर्शने प्रायेणेदं प्रतिपादितमस्ति यदात्मा अणुपरिमाणो महत्प्रमाणो वाऽस्ति-‘अणोरणीयान् महतो महीयानिति' । अणुपरिमाणस्य महत्परिमाणस्य वा नित्यत्वात् आत्मा नित्योऽस्ति इति वैदिका मन्वते । तन्मतानुसारेण मध्यमपरिमाणात्मकाः पदार्था अनित्याः सन्ति । जैनदर्शने मध्यमपरिमाणः आत्मा नित्योऽस्ति । स भौतिकपदार्थवत् अनित्योऽस्ति ।
(अधिकवाचनाय »)
|
|
|
|
|
|
|
|
Lightning strike jan 2007.jpg |
|
|
|
|
|
|
अब्दुल् कलाम् (AbdulKalam) अस्य जन्म क्रि.श. १९३१तमवर्षस्य अक्टोबरमासस्य पञ्चदशे दिनाङ्के तमिळळ्नाडुराज्यस्य रामेश्वरम् इति मण्डलस्य धनुष्कोटि इति स्थाने अभवत् । एषः भारतीयगणतन्त्रस्य एकादशः निर्वाचितः राष्ट्रपतिः अभवत् । डा.कलामः भारतसर्वकारस्य सर्वोच्चेन नागरिकसम्माननेन भारतरत्नेन अलङ्कृतः ।
(अधिकवाचनाय »)
|
|
|
|
|
|
|
साहित्यसङ्गीतकलाविहीन: साक्षात्पशु: पुच्छविषाणहीन: ।
तृणं न खादन्नपि जीवमान: तद्भागधेयं परमं पशूनाम् ॥
-
-
-
-
-
- सु.भा. - कुपण्डितनिन्दा (४१/३०)
गद्यात्मकं पद्यात्मकं च काव्यं, विचारप्रधानं शास्त्रं च साहित्यशब्देन विवक्षितम् । साहित्येन ज्ञानम् अभिवर्धते, सङ्गीतेन, शिल्पेन (कलया) च आत्मसन्तोष: भवति । एषु त्रिषु एकस्य वा ज्ञानं मानवस्य आवश्यकम् । एकस्मिन् अपि विषये यस्य उत्साह: न भवति स: पशु: एव । पशो: पुच्छं शृङ्गे च भवन्ति, एतस्य मनुष्यस्य तु तानि न सन्ति इत्येव भेद: । अपरोऽपि भेद: अस्ति यत् एष: तृणं न खादति, पशव: तु खादन्ति । किन्तु एतत् पशूनां परमं भाग्यमेव । अन्यथा पशूनां तृणम् एव दुर्लभं स्यात् !
|
|
|
|
|